अथ श्री सूक्तम्
ॐ हिर्ण्यवर्णां हरिणीं सुवर्ण रजत स्त्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
तां म आ वह जातवेदो लक्ष्मी मनप गामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरूषानहम्॥
अश्वपूर्वां रथमध्यां हस्तिनाद प्रमोदिनीम्।
श्रियं देवीम उपहृये श्री: मा देवी जुषताम्॥
कांसोस्मितां हिरण्य प्राकाराम आर्द्रा
ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मे स्थितां पद्मवर्णां तामिहोप हृये श्रियम्॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टाम् उदाराम्।
तां पद्मनेमी शरणं प्रपद्ये
अलक्ष्मी: मे नश्यतां त्वां वृणोमि ॥
आदित्यवर्णे तपसो: अधिजातो वनस्पति: तव वृक्ष: अथबिल्व:।
तस्य फलानि तपसा नुदन्तु मायान्तराया: चबाह्या अलक्ष्मी: ॥
उपैतु मां देव सख: किर्तिश्च मणिना सह ।
प्रादुर्भूत: अस्मिराष्ट्रे अस्मिन् किर्तिमृद्धिं ददातु मे॥
क्षुत्पिपासामलां ज्येषठाम् अलक्ष्मीं नाशयामि अहम्।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्॥।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपहृये श्रियम्॥
मनस: काम माकूतिं वाच: सत्य मशीमहि।
पशुनां रूप मन्नस्य मयि श्री: श्रयतां यश:॥
कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्म मालिनीम्।।
आप: सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्म मालिनीम्।
चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो म आवह ॥
आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनीम्।
सुर्याहिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
तां म आवह जातवेदो लक्ष्मी मनप गामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो
दास्य: अश्वान् विन्देयं पुरूषा नहम्॥
य: शुचि: प्रयतो भूत्वा जुहुयात् आज्य मन्वहम्।
सूक्तं पञ्चदशर्चं च श्रीकाम: सततं जपेत्॥
॥ इति श्री सूक्तम्॥

.....