अथ महालक्ष्म्यष्टकं स्तोत्रम् इंद्र उवाच –
नमस्ते अस्तु महामाये श्री पीठे सुरपूजिते ।
शंखचक्र गदाहस्ते महालक्ष्मि नम: अस्तुते ॥
नमस्ते गरुड- आरुढ़े कोलासुर भयंकरि।
सर्वपाप हरे देवि महालक्ष्मि नम: अस्तुते ॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरि।
सर्वदु:ख हरे देवि महालक्ष्मि नम: अस्तुते॥
सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि ।
मन्त्रपूते सदा देवि महालक्ष्मि नम: अस्तुते ।।
आद्यान्त रहिते देवि महाशक्ति महेश्वरि ।
योगजे योग सम्भूते महालक्ष्मि नम: अस्तुते॥
स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे।
महापाप हरे देवि महालक्ष्मि नम: अस्तुते॥
पद्म आसन स्थिते देवि पर ब्रह्म स्वरूपिणि ।
परमेशि जगन्मात: महालक्ष्मि नम: अस्तुते॥
श्वेत अम्बरधरे देवि नाना अलंकारभूषिते।
जगस्थिते जगत्मात: महालक्ष्मि नम: अस्तुते ॥
महालक्ष्मी अष्टकं स्तोत्रं य: पठेद् भक्ति मान्नर:।
सर्वसिद्धिं अवाप्नोति राज्यम् आप्नोति सर्वदा ॥
एककालं पठेत् नित्यं महापाप विनाशनम्।
द्विकालं य: पठेत् नित्यं धन-धान्यसमन्वित: ॥
त्रिकालं य: पठेत् नित्यं महाशत्रु विनाशनम्।
महालक्ष्मी: भवेत् नित्यं प्रसन्ना वरदा शुभा॥
इतीन्द्र कृतं महालक्ष्म्यष्टक स्तोत्रं सम्पूर्णम्।

.....