लक्ष्मी वंदना
वन्दे लक्ष्मीं परशिवमयी शुद्धजाम्बू नदाभां
तेजोरूपां कनक वसनां सर्वभूषो ज्ज्वलांगीम्।
बीजापूरं कनक कलशं हेमपद्मं दधाना
माद्यांशक्तिं सकल जननीं विष्णुवामांक-संस्थाम्।
समस्त भूतान्तर संस्थिता त्वं
समस्त भोक्त्रीश्वरि विशवरूपे ।
तत् नास्ति यत् त्वद्व्यतिरिकत्वस्तु
त्वत् पादपद्मं प्रणमामि अहं श्री: ॥
जयतु जयतु लक्ष्मी: लक्षणा: अलंकृतांगी
जयतु जयतु पद्मा पद्म सद्माभि वंद्या ।
जयत जयतु विद्या विष्णु वामांक संस्था
जयतु जयतु सम्यक् सर्वसम्पत् करी श्री: ॥
धनदे धनदे देवि दानशील दयाकरे ।
त्वं प्रसीद महेशानि । यदर्थ प्रार्थयामि अहम्॥
भवानि त्वं महालक्ष्मी : सर्वकाम प्रदायिनी ।
सूपूजिता प्रसन्ना स्यात् महलक्ष्मि नम: स्तुते ॥

॥ इति श्री लक्ष्मी पूजनम ॥